Plakshadveepa varnanam – Sanskrit poem

🌷🌷🌷🌷🌷🌷🌷 ।।प्लक्षद्वीपस्य वर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷
प्लक्षद्वीपसुवर्णो वै जम्बूद्वीपस्समो वृतः ।
प्लक्षवृक्षेण नामायं द्वीपस्तथोच्यते बुधैः ।।१।।
सप्तजिह्वोऽग्निदेवस्तत्र विराजते सदा ।
प्रियव्रतात्मजो यत्र द्वीपस्याधिपतिस्तथा ।।२।।
सप्तवर्षेषु तं द्वीपमिध्मजिह्वश्चकार ह ।
सप्तपुत्रेषु ते द्वीपा इध्मजिह्वविभाजिताः।३।।
शिवं च यवसं शान्तं सुभद्रं क्षेममेव च ।
अमृतमभयं चैव सप्तवर्षाणि वै यथा ।।४।।
सप्तनद्यश्च वै सन्ति सप्तशैलाश्च सुन्दराः ।
तेषां नामानि सर्वाणि क्रमशो बोधयाम्यहम् ।।५।।
अरुणाऽऽङ्गीरसी तत्र सावित्री नु ऋतम्भरा ।
सुप्रभाता च सत्यम्भरैता नद्यश्च सप्त हि ।।६।।
मणिकूटस्तथैवेति वज्रकूटः सुपर्णकः ।
ज्योतिष्मान्मेघमालश्च इन्द्रसेनस्तथैव च ।।७।। सप्तमपर्वतश्चैष हिरण्यष्ठीव एव च ।
उच्यन्ते ननु सर्वे हि सेतुशैला यथा शुभाः ।।८।।
चत्वारः किल वर्णाश्च स्नान्ति नदीषु सर्वथा ।
पतङ्गोर्ध्वायनश्चैव हंसः सत्याङ्ग एव च ।।९।।
रजस्तमो गुणास्सर्वे स्नात्वा नश्यन्ति वारिणा ।
न जायन्ते तथा रोगाः सहस्रायुषमानवाः ।।१०।।
यजन्ते सूर्यमेते त्रय्या च विद्यया सदा ।
सूर्यो विष्णुस्वरूपो हि शरणं यान्ति ते जनाः ।।११।।
प्लक्षद्वीपस्य सर्वे हि जन्मना बलशालिनः ।
आयुरिन्द्रियमौजश्च तेषु सहो बलं सदा ।।१२।।
बुद्धिमन्तश्च ते सर्वे सन्ति वै विक्रमा यथा ।
प्लक्षद्वीपस्य वृत्तं तु शिवान्या लिखितं तथा ।।१३।।

This entry was posted in Uncategorized. Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s