Chandraghanta – Sanskrit poem

३.।।चन्द्रघण्टां नमाम्यहम् ।।**********************
आभा स्वर्णमयी यस्या लोकेषु व्यापृता शुभा ।
तेजोमयी हि या माता चन्द्रघण्टां नमाम्यहम् ।।१।।
या जगज्जननी जाता हन्तुं च महिषासुरम् ।
लोकस्य रक्षणार्थं च देवानां कार्यसिद्धये ।।२।।
निस्सृतं सर्वदेवेभ्यो दिव्यतेजो हि तत्क्षणे ।
सुन्दरी दुर्गमा दुर्गा तदा लोके बभूव ह ।।३।।
दशभुजासु शोभन्ते त्वस्त्रशस्त्राणि सर्वथा ।
शंखचक्रगदापद्मं शूलं च बिभ्रती हि सा ।।४।।
देवेन्द्रेण प्रदत्ता वै घण्टा देव्यैर्यथा शुभा ।
चन्द्राकारस्वरूपेण घण्टा विराजते तथा ।।५।।
घण्टाध्वनिं च श्रुत्वा हि देवतानां गतं भयम् ।
व्यदारयद्यथा माता दैत्यानां हृदयानि च ।।६।।
दैवैश्च जयघोषेन मातुर्नाम सुविस्तृतम् ।
चन्द्रघण्टेति नाम्ना या लोके ख्याता बभूव ह ।।७।।
सिंहो हि वाहनं यस्याश्शक्तेश्च परिचायिका ।
नाशयति सदा दुष्टांश्चन्द्रघण्टां नमाम्यहम् ।।८।।
दुःखं हरति भक्तानां सुखसमृद्धिदायिनी ।
माधुर्यं हि ददौ तेभ्यश्चन्द्रघण्टां नमाम्यहम् ।।९।।
अजाप्येषा हि माता वै तथाऽनजा च कथ्यते ।
लक्ष्याऽलक्ष्यापि चाम्बा सा चन्द्रघण्टां नमाम्यहम् ।।१०।।
नाभिचक्रं तृतीयं हि नवचक्रेषु विद्यते ।
मणिपूरं हि नाम्ना च सर्वत्र ज्ञायते बुधैः ।।११।।
अत्र दशदलीयं च सरसिजं हि दृश्यते ।
यस्मिन् डकारतो वर्णाः फकारान्तं भवन्ति च ।।१२।।
विद्युन्नाभिप्रदेशे हि चाग्नितत्त्वं नु वर्तते ।
ध्यायन्ति साधका यच्च सिद्धिं ते प्राप्नुवन्ति च ।।१३।।
यावन्न साधयन्त्येव चक्रेषु च तृतीयकम् ।
जन्ममरणतो मुक्तिर्नैव तु प्राप्यते नरैः ।।१४।।
दिव्यशक्तिर्यथा तत्र मणिपूरे च विद्यते ।
नश्यन्ति सर्वपापानि मातुश्च दर्शनेन वै ।।१५।।
नमन्ति योगिनो यां च नमन्ति सर्वदेवताः ।।
तां वन्दस्व शिवानि ! त्वं चन्द्रघण्टां हि सर्वदा ।।१६।।
(अनुष्टुप्छन्द:)
डा.शिवानी शर्मा, ढाटरथग्राम:, जीन्दनगरम्, हरियाणाराज्यम् ।
************************

This entry was posted in Uncategorized. Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s