Dashakshara mantra stotram of Ganesha from Mudgala purana

Courtesy:Sri.Mandalapati

दशाक्षरमन्त्रस्तोत्रम्

श्रीगणेशाय नमः ।
मुद्गल उवाच ।
असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शङ्करस्तेषां संयोगे
गणपो भवेत् ॥१॥
संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भवति मुनिसत्तमा ॥२॥
संयोगायोगयोर्योगे योगो गणेशसञ्ज्ञितः । शान्तिभ्यः शान्तिदः प्रोक्तो भजने
भक्तिसंयुतः ॥३॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः । एकाक्षरं विधियुतं ततः
सोऽन्तर्हितोऽभवत् ॥४॥
ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शान्ति समायुक्तश्चरामि त्वकुतोभयः ॥५॥
न गणेशात्परं ब्रह्म न गणेशात्परं तपः । न ग़णेशात्परं कर्म ज्ञानं न
गणपात्परम् ॥६॥
न गणेशात्परो योगो भक्तिर्न गणपात्परा । तस्मात्स सर्वपूज्योऽयं सर्वादौ
सिद्धिदायकः ॥७॥
गणेशानं परित्यज्य कर्मज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि
प्रहुतं यथा ॥८॥
सर्वांस्त्यज्य गणेशं यो भजतेऽनन्यचेतसा । सर्वसिद्धिं लभेत्सद्यो ब्रह्मभूतः
स कथ्यते ॥९॥
एवमुक्त्वाऽत्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः
साक्षादन्तर्धानं चकार ह ॥१०॥
इति दशाक्षरमन्त्रस्तोत्रं समाप्तम् ।

Advertisements
This entry was posted in Uncategorized. Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s